वांछित मन्त्र चुनें

गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् ॥

अंग्रेज़ी लिप्यंतरण

gotrabhidaṁ govidaṁ vajrabāhuṁ jayantam ajma pramṛṇantam ojasā | imaṁ sajātā anu vīrayadhvam indraṁ sakhāyo anu saṁ rabhadhvam ||

पद पाठ

गो॒त्रऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा । इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥ १०.१०३.६

ऋग्वेद » मण्डल:10» सूक्त:103» मन्त्र:6 | अष्टक:8» अध्याय:5» वर्ग:22» मन्त्र:6 | मण्डल:10» अनुवाक:9» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सजाताः) हे समान राष्ट्रिय समृद्धिकर्मों में प्रसिद्ध (सखायः) परस्पर मित्र बने सैनिको ! तुम (इमम्) इस (गोत्रभिदम्) शत्रुओं के गोत्रों-वंशों के नाशक (वज्रबाहुम्) शस्त्रपाणि-भुजाओं-हाथों में शस्त्र जिसके हैं, ऐसे शस्त्रधारी (अज्म जयन्तम्) संग्राम जीतते हुए संग्रामविजेता (ओजसा) बल से (प्रमृणन्तम्) प्रहारकर्ता (इन्द्रम्-अनु) राजा के अनुसार (वीरयध्वम्) वीरकर्म करो (अनु सं रभध्वम्) उसके अनुशासन को मानते हुए शिविर में तैयार रहो ॥६॥
भावार्थभाषाः - शत्रुओं का वंशोच्छेदकर्ता शस्त्रधारी संग्रामजेता प्रहारक राजा होना चाहिए तथा सैनिक जन राष्ट्रिय समृद्धि कार्यों में प्रसिद्ध परस्पर मित्र राजा के अनुसार वीरता दिखाने-वाले उसके अनुशासन को मानते हुए शिविर में तैयार रहने चाहिये ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सजाताः) हे समानराष्ट्रियसमृद्धिकर्मसु प्रसिद्धाः ! (सखायः) परस्परसखिभूताः सैनिकाः ! यूयम् (इमम्) एतं (गोत्रभिदम्) शत्रूणां गोत्राणां वंशान् यो भिनत्ति तम् “गोत्रभिदं यः शत्रूणां गोत्राणि भिनत्ति तम्” [यजु० १७।३८ दयानन्दः] (वज्रबाहुम्) शस्त्रपाणिं (अज्म जयन्तम्) सङ्ग्रामं जयन्तम् “अज्म सङ्ग्रामनाम” [निघ० २।१७] (गोविदम्) राष्ट्रभूमेर्लब्धारं प्राप्तराज्यं (ओजसा) बलेन (प्रमृणन्तम्) प्रहारकर्त्तारं (इन्द्रम्-अनु) राजानमनुसृत्य (वीरयध्वम्) वीरकर्म कुरुत (अनु सं रभध्वम्) तदनुशासनमाचरन्तः शिविरे सज्जीभूतास्तिष्ठत ॥६॥